SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९३१ (A) तमेवाहसत्थेणं सालंब, गया-ऽऽगयाणमिह मग्गणा होइ । तत्थऽन्नत्थ गिलाणे, लहु-गुरु-लहुगा चरिम जाव ॥ २०८५ ॥ सार्थेन सह विदेशं स्वदेशमपि वा दूरं गन्तुकामाः सालम्बं गतास्तदा 'यदि अध्वशीर्षके ग्रामे परतो गमनाय सार्थं लप्स्यामहे ततो यास्यामः, अथ न लप्स्यामहे तर्हि प्रत्येष्यामः, उदन्तं च परस्परं वक्ष्यामः' एवं ये सार्थेन सहाध्वशीर्षके ग्रामे गताः ये च न गतास्तेषामिह आभवत्यनाभवति सचित्तादौ विषये मार्गणा वक्ष्यमाणा भवति। तथा तत्रान्यत्र च ग्लाने तद्यथा- अन्यत्राध्वशीर्षके ग्रामे स्थितानां ग्लानो न तत्राऽऽचार्यपार्श्वे इति प्रथमः १, आचार्यपार्श्वे न तेषामिति द्वितीयः२, द्वयानामपि पार्श्वे इति तृतीयः३, न द्वयानामपि इति चतुर्थः ४, तत्र यद्याचार्यस्तेषां गवेषणं न करोति मासलघु। अथ ज्ञातेऽपि ग्लाने तस्य कृत्यकरणाय न यत्नमाधत्ते, ततश्चतुर्गुरुकम् । यच्चाऽऽगाढानागाढपरितापनादिनिमित्तं चतुर्लघ्वादि यावच्चरम पाराञ्चितं तदपि प्राप्रोति। तदेवं प्रथमभङ्गे प्रागभिहितमपि प्रायश्चित्तं विनेयजनानुग्रहाय भूय उक्तम्। एवं द्वितीये तृतीयेऽपि भङ्गे वाच्यम् ॥ २०८५ ॥ गाथा ७२०८१-२०८६ दूरगमने सामाचारी ९३१ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy