________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः ९३० (B)
न लभते, किन्तु तत्तेषामेव ॥ २०८२॥
विप्परिणयम्मि भावे, लद्धं अम्हेहि बेंति जइ पुट्ठा । पच्छा पुणो वि जातो, लभंति दोच्चं अणुण्णवणा ॥ २०८३ ॥
यदि पुनस्ते पृष्टाः सन्तो ब्रुवते– एतद्विपरिणते भावेऽस्माभिर्लब्धं तत्तेषामेव, नाचार्यस्य। अथ पश्चात् पुनरपि भावो जातो द्वितीयमपि वारमवग्रहस्यानुज्ञापना कर्तव्या, तदा तथारूपाद्भावात् जातादारतो यत्ते लभन्ते तदाचार्यस्य भवति, न तेषामिति ॥ २०८३॥
आगयमणागयाणं, उउबद्धे सो विही उ जो भणितो । अद्धाण सीसगम्मि वि, एस विही पट्ठिए विदेसं ॥ २०८४ ॥ | गाथा
४२०८१-२०८६ य एष अनन्तरमुक्तो विधिः स ऋतुबद्धे ऋतुबद्धे काले ऑगतानां चरिकातो |
दूरगमने निवृत्तानामनागतानां चरिकाप्रविष्टानामवसेयः। एष पुनर्वक्ष्यमाणो विधिर्विदेशं प्रस्थिते, सामाचारी उपलक्षणमेतत्, स्वदेशेऽपि दूरं गन्तुकामे अध्वशीर्षके ग्रामे स्थिते वेदितव्यः ॥२०८४॥
९३० (B) १. सं. मु.। न लभंति पु. प्रे. ॥
For Private and Personal Use Only