________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देश :
९३० (A)
www.kobatirth.org
लद्धुं अविप्परिणते, कहिंति भावम्मि विप्परिणयम्मि । इति माया गुरुओ, तु सचित्ताऽऽदे सगुरुया वा ॥ २०८१ ॥
यदि अविपरिणते भावे सचित्तादि लब्ध्वा विपरिणम्य कथयन्ति इदं विपरिणते भावेऽस्माभिर्लब्धम् इति तदा मायया ते उपसम्पदं लोपयन्तीति मायानिष्पन्नं प्रायश्चित्तं गुरुको मासः । अचित्ते समुत्पादिते तत्प्रत्ययमुपधिनिष्पन्नं प्रायश्चित्तं, सचित्ते समुत्पादिते तत्प्रत्ययं चतुर्गुरुकम्, आदेशान्तरेण प्रायश्चित्तमनवस्थाप्यम् । तत आचार्यो निष्कारणं यदि तान्न गवेषयति तदा तस्य प्रायश्चित्तं मासलघु ॥ २०८१ ॥
सुहदुक्खिया गविट्ठा, सो चेव उ उग्गहो य सीसा य । विप्परिणमंतु मावा, अगविद्वेसुं तु सो न लभे ॥ २०८२ ॥
Acharya Shri Kailassagarsuri Gyanmandir
ते सुखदुःखिताः सुखदुःखोपसम्पन्नका आचार्येण गवेषिताः । स एव चावग्रहो वर्तते, अद्यापि विपरिणामाकथनात् । ते शिष्या यदि विपरिणमन्ति यदि वा मा विपरिणमन्तु तथापि यत्तैरुत्पादितं सचित्तादि तदाचार्यो लभते, न पुनस्तत्तेषामिति । अथ न गवेषिता आचार्येण, विपरिणताश्च ते जातास्ततस्तैरगवेषितैर्विपरिणतैश्च यल्लब्धं सचित्तादि तत्स आचार्यो
For Private and Personal Use Only
गाथा
| २०८१ २०८६ दूरगमने सामाचारी
९३० (A)