________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९२९ (B)
܀܀܀܀
܀܀܀܀܀
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
द्वयेऽपि प्रत्येकं न संस्तरन्ति द्वयानामपि च प्रत्येकं ग्लानस्तत आह- असंस्तरन्तो गवेषणाद्यकुर्वन्तोऽपि भवन्ति शुद्धाः, न प्रायश्चित्तविषयाः ॥ २०७९ ॥
सम्प्रति "गुरु पुणे न लभति य" [गा. २०७६ ] इत्यत्र चशब्दसूचितमर्थमुपदर्शयतिहणं न गविट्ठा, अतरंत ण ते य विष्परिणया उ । तत्थवि न लहइ सेहे, लभइ कज्जे विपरिणया वी ॥ २०८० ॥
ते सुखदुःखोपसम्पन्नकाश्चरिकां गता अतरन्तो यदि कथमप्याचार्येण हृष्टेन नीरोगेण प्रयोजनान्तराव्याकुलितेन च सता न गवेषिता, अतरन्तो न च ते विपरिणता यथा वयमतरत वर्त्तामहे तथाप्याचार्येण न गवेषिताः, ततः किमस्माकमाचार्येणेति ? तत्रापि हृष्टेनागवेषणेऽपि, आस्तां परस्परनिश्रायामित्यपिशब्दार्थः, न लभते गुरु: शैक्षान्, किमुक्तं भवति ? - तथाऽविपरिणताः सन्तो यत्सचित्तादिकमुत्पादयन्ति तदाचार्यो न लभते । अथ कार्ये कस्मिन्नपि व्याकुलीभवनत आचार्येण तेऽतरन्तो न गवेषितास्तर्हि यद्यपि ते विपरिणता अपि यत्सचित्तादिकमुत्पादयन्ति तत्ते न लभन्ते, किन्तु लभते आचार्यः ॥ २०८० ॥
For Private and Personal Use Only
गाथा
२०७६ २०८० विपरिणते
* आभाव्यम् ९२९ (B)
܀܀܀