SearchBrowseAboutContactDonate
Page Preview
Page 300
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९२९ (A) ग्लानकृत्यं न किमपि करोति तदा तस्मिन्नकुर्वति चत्वारो गुरुका भवन्ति, येऽपि चानागाढाऽऽगाढपरितापनादयो दोषास्तन्निमित्तमपि चतुर्लघ्वादि चरमपर्यन्तं तस्य प्रायश्चित्तमापद्यते । द्वितीये भङ्गे आचार्यस्य ग्लानः, न तेषामित्येवंरूपे तैरपि ग्लानस्य गवेषणाय साधुप्रेषणादि कर्तव्यम् । यदि पुनर्न कुर्वन्ति तदा तेषामप्यप्रेषणे, उपलक्षणमेतद्, अकरणे च एवमुक्तप्रकारेण प्रायश्चित्तमवसातव्यम्। तथाहि-यदि ते गवेषणाय साधुसंघाट न प्रेषयन्ति तदा मासलघु। अथ कृतेऽपि प्रेषणे आचार्येण वा ज्ञापिते यदि ग्लानकृत्यं न कुर्वन्ति तदा चत्वारो गुरुकाः प्रायश्चित्तम् ॥ २०७८ ।। अहवा दोण्ह वि होज्जा, संथरमाणेहिं तह गवसणया । तं चेव य पच्छित्तं, असंथरंता भवे शुद्धा ॥ २०७९॥ अथवा द्वयानामपि आचार्यस्य तेषां च प्रत्येकं ग्लानो भवेत् ततोऽपि यदि संस्तरन्ति ततः संस्तरद्भिः परस्परं ग्लानस्य गवेषणा कर्तव्या। अथ न कुर्वन्ति तदा तदेव प्रायश्चित्तं यदनन्तरमुक्तम् । तथाहि- परस्परमप्रेषणे मासलघु, ग्लानकृत्याकरणे चतुर्गुरुकम् । अथ गाथा २०७६-२०८० विपरिणते आभाव्यम् ९२९ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy