________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
एते-अनन्तरं तृतीयोद्देशके ये दोषा उक्तास्तैरेतैर्दोषैर्विमुक्त एतद्दोषविमुक्तो भवति गणी श्री
आचार्य उपाध्यायो गणावच्छेदको वा भवति । स च नियमाद् भावतः परिच्छन्नः सूत्राव्यवहारसूत्रम्
ऽर्थतदुभयोपेतः, द्रव्यपरिच्छदः परिवारो वस्त्रादिकं लक्षणसम्पन्नता च। तत्र परिवारस्य चतुर्थ द्रव्यपरिच्छदस्य परिमाणार्थमिदमादिमं सूत्रं सूत्राष्टकम् ॥ १७११ ॥ उद्देशकः
पुनः प्रकारान्तरेण सम्बन्धकथनार्थमाह७९४ (A)
आदिमसुत्ते दोण्णि वि, भणिया तइयस्स इह पुणिं तेसिं । कालविभागविसेसो, कत्थ दुवे? कत्थ वा तिण्णि? ॥१७१२॥ तृतीयस्योद्देशकस्यादिमे सूत्रे द्वावपि साधर्मिकौ विहरन्तावुक्तौ। तथा चादिसूत्रपाठ:
|१७०५-१७१० "दो साहम्मिया एगतो विहरंति' इत्यादि। इह पुनस्तयोर्द्वयोः कालविभागविशेषो भण्यते।
करणविधिः || यथा-कुत्र कस्मिन् कालविशेषे द्वौ कल्पेते? कुत्र वा त्रय ? इति कालविशेषविभागतो.
द्वि-त्रादिसाधुविहारकल्पाऽकल्पविधिप्रतिपादनार्थमिदं सूत्राष्टकम्। इह कालेऽपि वाच्ये ७९४ (A) सामान्यतः सप्तम्यर्थमात्रविवक्षायां त्रप्रत्ययो न विरुद्ध इति कुत्रेत्युक्तम् ॥ १७१२ ॥
गाथा
व्यवहार
For Private and Personal Use Only