________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९२८ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
विपरिणताः, तेषां गतागतेषु आचार्यस्तेषां समीपं गतस्ते वाऽऽचार्यस्य समीपमागता इत्येवंरूपेषु यावन्तं कालमधिकृतः] तस्मिन् अपूर्णे पूर्णे वा यदि द्वितीयमपि वारमवग्रहमनुज्ञापयन्ति ततो यद्विपरिणतैर्लब्धं तदाचार्यों न लभते, किन्तु यदा तेषां तथारूपं चित्तमजायत यथा द्वितीयमपि वारमवग्रहमनुज्ञापयामस्ततः प्रभृति यद लब्धं तदाचार्यस्याऽऽभवति एष गाथार्थः ॥ २०७५॥
साम्प्रतमन्यत्र तत्र वा विपरिणते यत् आभाव्यं तदुपदर्शयतिअवरो परस्स निस्सं, जइ खलु सुहदुक्खिया करेज्जाहि ।। ओहब्भंतर सेहं, लभंति गुरु पुण्णे न लभइ य ॥ २०७६ ॥
यदि चरिकाप्रविष्टा यदि वा चरिकातो निवृत्ता विपरिणामे किमस्माकमाचार्येण? वयमेव परस्परं सुखदुःखनिश्रां कुर्म इत्येवंरूपे जाते अपरः परस्य परस्परं सुखदुःखिताः खलु निश्रां कुर्युः । तदा यावान्[कालो]ऽवधिकृतस्तस्याभ्यन्तरे तस्मिन्नपूर्णे पूर्णे वा यत् शैक्षं, शैक्षग्रहणमुपलक्षणं, शैक्षप्रभृतिकं सचित्तादि ते उत्पादयन्ति तत्तेषामेव भवति, गुरुराचार्यः पुनर्न लभते। चशब्दसूचितमर्थम् “हटेण" [गा.२०८०] इत्यादिना व्याख्यास्यति ॥ २०७६ ॥
गाथा ४२०७६-२०८०
विपरिणते आभाव्यम्
९२८ (A)
For Private and Personal Use Only