________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः
९२५ (A)
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
अनुज्ञापनायां गुरुणाऽभ्युपगते दृष्टः सन् तस्य गुरोः क्रमयुगलमात्मीयेन शिरसा संस्पृशति प्रणमतीत्यर्थः । तदेवं ततः पश्चात्कायसंस्पर्शं कुरुते इति व्याख्यातम्। अथवायमर्थःततः पश्चात्कायस्पर्शमनुज्ञापयति। तथा चाह-कृतिकर्मादिषु कृतिकर्म वन्दनकं विश्रामणादिकं वा, आदिशब्दात् क्षामणादिपरिग्रहः, तेषु कर्तव्येष्वागच्छति गच्छति च ये स्पर्शाः कायसंस्पर्शाः, तान् अनुजानीतेति वाक्यशेषः ॥ २०६८ ॥
सम्प्रति यत्पाठान्तरं भिक्षुभावस्येति तद्व्याख्यानार्थमाहभिक्खूभावो सारण, वारण पडिचोयणा जहा पुव्विं ।। तह चेव इयाणिं पी, निज्जुत्ती सुत्तफासेसा ॥ २०६९ ॥ भिक्षुभावो नाम स्मारणा वारणा प्रतिचोदना, अत्र प्रतिचोदनाग्रहणं चोदनाया | उपलक्षणम्। तत्र विस्मृतेऽर्थे स्मारणा अनाचारस्य प्रतिषेधनं वारणा। स्खलितस्य पुनः शिक्षणं | चोदना। पुनः पुनः स्खलितस्य निष्ठरं शिक्षापणं प्रतिचोदना। एताभिर्यथावस्थितो भिक्षुभाव | १. नायां कृतायां गुरु वा. मो. पु. सं. मु. ॥
गाथा २०६६-२०७०
चरिकाप्रविष्टस्य सामाचारी
९२५ (A)
For Private and Personal Use Only