________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९२५ (B)
उपजायते, ततः कारणे कार्योपचाराद् एता एव भिक्षुभाव इत्युक्तम्। तदर्थायेति, किमुक्तं भवति? यथा पूर्वमेताः स्मारणादय आसीरन् तथा इदानीमपि स्युरित्येवमर्थम्। तदेवं कृता विषमपदव्याख्या भाष्यकृता। साम्प्रतमेषा वक्ष्यमाणा सूत्रस्पर्शा सूत्रस्पर्शिका नियुक्तिः ॥२०६९॥ तामेव प्रथमसाधर्मिकसूत्रविषयामाहआकिण्णो सो गच्छो, सुहदुक्खपडिच्छिएहिं सीसेहिं । दुब्बल खमग गिलाणे, निग्गम संदेसकहणे य ॥ २०७० ॥ 'बहवः साधर्मिका इच्छेयुरेकतो अभिनिचारिकां चरितु 'मित्युक्तम् । तत्र पर आहकेन कारणेन तेषां निर्गमेच्छा? नियुक्तिकृदाह-सुखदुःखप्रतीच्छिकैः सुखदुःखार्थमुपसम्पन्नः प्रातीच्छिकैः शिष्यैश्च स गच्छ आकीर्णः समाकुलः, आकीर्णत्वेन च स नगरे स्थितः, अन्यत्र स्थितानामेषणीयभक्तपानासंभवात् । तत्र च तृतीयस्यां पौरुष्यां भिक्षावेला, चिरं च हिण्डितव्यम्, धान्याम्लकूरादिकं च तत्र भैक्षं, ततः केचित्साधवो दुर्बला जाताः, क्षपका
गाथा २०६६-२०७०
चरिकाप्रविष्टस्य सामाचारी
९२५ (B)
For Private and Personal Use Only