________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम्
मितं गमनं प्रयोजनवशतस्तस्य करणात्। मितं चिट्टणंत्ति अवस्थानं, सततस्वाध्यायादि प्रवृत्ततया विश्रामनिमित्तं तस्य किञ्चित्कालं भावात्। मितं भाषितं, कार्ये समापतिते तस्यावसरभावात् । मितं च भोजनम्, एककुक्षिपूरणमात्रस्य तस्य भगवतानुज्ञानात्। भदन्त! परमकल्याणयोगिन् ! मम ध्रुवमनुजानीत। या च ध्रुवा गच्छमर्यादा तामप्यनुजानीत। इह ध्रुवं नियतं नैत्यिकमिति ते त्रयोऽप्येकार्थास्तथाप्यर्थभेदोऽस्ति। तत्र या ध्रुवा गच्छमर्यादा इत्यनेन ध्रुवशब्दार्थो व्याख्यातः, ध्रुवमवश्यकरणीयमिति ॥ २०६५॥
चतुर्थ
उद्देशकः ९२४ (A)
सम्प्रति नियत-नैत्यिकशब्दव्याख्यानार्थमाहनिययं च न हाविस्सं, अहमवि ओहायमादि जा मेरा । निच्चं जाव सहाए, न लभामि इहाऽऽवसे ताव ॥ २०६६ ॥
यावदवधावनादिका मर्यादा तावदहमपि नियतं न हापयिष्याम्यवश्यकरणीयम्। किमुक्तं भवति? नियतमवधावनमर्यादातोऽवश्यमहापनीयमिति। तथा नित्यमिति कोऽर्थः?
गाथा २०६६-२०७०
चरिकाप्रविष्टस्य सामाचारी
९२४ (A)
१. कियत्का० वा. मो. पु. सं. मु. ॥
For Private and Personal Use Only