________________
Shri Mahavir Jain Aradhana Kendra
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशक:
९२३ (B)
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दातुमाचार्याणामुपतिष्ठति, ततो विपरिणते भावे प्रायश्चित्तस्थानापत्तावालोचितायामाचार्या छेदं परिहारं वा प्रयच्छन्ति, तस्य श्रद्धापूर्वकं करणायाभ्युत्तिष्ठति ॥ २०६३ ॥
'भिक्खुभावस्स अट्ठाए' इत्यत्र पाठान्तरं 'भिक्खू उववायस्स अट्ठाए' इति तत्रोपपातशब्दव्याख्यानार्थमाह
उववाओ निद्देसो, आणा विणओ य होंति एगट्ठा । तस्साए पुणरवि, मितोग्गहो वासगाणुण्णा ॥ २०६४ ॥
उपपातो निर्देश आज्ञा विनय इत्येतानि भवन्त्येकार्थानि । ततोऽयमर्थो - भिक्षुः उपपातस्य- आज्ञाया अर्थाय करणाय द्वितीयमपि वारं मितावग्रहानुज्ञापितेन मितावग्रहानुज्ञः । किमुक्तं भवति ? मिता वासानुज्ञा, एतेन मितावग्रहपदव्याख्यानं कृतम् ॥ २०६४॥ मिताग्रहणं सूत्रे मितगमनादीनामुपलक्षणम्, अतस्तदुपदर्शयतिमितगमण चिट्टेणातो, मियभासि मियं च भोयणं भंते! । मज्झ धुवं अणुजाण, जा य धुवा गच्छमज्जाया ॥ २०६५ ॥
For Private and Personal Use Only
गाथा
२०५९ २०६५ चरिका
प्रविष्टस्य
* सामाचारी
९२३ (B)