________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः ९२३ (A)
परं ति परिणते भावे, परब्भूतो उ सो पुणो । नवोवसंपयाए व, तत्थाऽऽलोए पडिक्कमे ॥ २०६२ ॥
'परं चउराय पंचरायातो' इत्यत्र परमिति “व्याख्यानतो विशेषप्रतिपत्ति" स्ततोऽयमर्थःपरिणते गच्छान्मया निष्क्रमितव्यमित्येवं परिणते भावे अत एव गच्छात्पराभूतः सन् चतूरात्रात्पञ्चरात्राद्वा परत आरतो वा स्थविरान् पश्येत्। भावतश्च पुनर्गच्छावस्थायितया यदि प्रत्यावृत्तोऽजायत, ततः स पुनर्भूयो नवोपसम्पदीव तत्प्रथमतयोपसम्पदीव तत्र तेषु स्थविरेषु पार्श्वे आलोचयेत् प्रतिक्रामेच्च ॥ २०६२ ॥
जइ पुण किंचाऽऽवण्णो, तत्थ उ आलोइउं उवट्ठाति । विप्परिणयम्मि भावे, एमेव अविप्परिणयम्मि ॥ २०६३ ॥
विपरिणते भावे यदि किञ्चित् प्रायश्चित्तस्थानमापन्नः, तत्र प्रथमत: आलोचयितु- | मालोचनां दातुमाचार्याणामुपतिष्ठति, एवमेव अविपरिणतेऽपि द्रष्टव्यम् । किमुक्तं भवति? अविपरिणतेऽपि भावे यदि किञ्चिदापन्नः प्रायश्चित्तस्थानं ततस्तत्राप्यालोचयितुमालोचनां
गाथा २०५९-२०६५
चरिकाप्रविष्टस्य सामाचारी
९२३ (A)
For Private and Personal Use Only