________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः
९२२ (B)
जा याऽणुण्णवणा पुव्वं, कया साहम्मि उग्गहे । संभावणा एसा लंदं, जा भावो ताऽणुयत्तती ॥ २०६१ ॥
या अन्यस्माद् गणादागतेनोपसम्पद्यमानेनालोचना पुरा दत्ता सैव तिष्ठति। यश्च |* पूर्वमवसन्नेभ्य आगत्य भावतः प्रतिक्रान्तस्तदेव प्रतिक्रमणं तिष्ठति ॥ २०६०॥
या च पूर्वमन्यस्माद् गणादागतेन साधर्मिकावग्रहस्यानुज्ञापना कृता सैव तिष्ठति। 'अहालन्दमवि' इत्यत्र योऽपिशब्दस्तस्यार्थ:- सा च एषा न केवलं यावान्काल उक्तस्तावन्तं, किन्तु चिरमपि कालं यावद्भावोऽधिकृतगच्छस्थायितयाऽनुवर्तते तावत्सैवावग्रहस्यानुज्ञापना तिष्ठति। यथालन्दमपि इत्यन्तर्दीपकं, ततो यथालन्दमपि सैवालोचना तदेव च प्रतिक्रमणमित्यपि द्रष्टव्यम् ॥२०६१॥
अधुना द्वितीये चरिकाप्रविष्टसूत्रे यदुक्तं 'परं चउराय-पंचरायातो' इत्यादि तव्याख्यानार्थमाह
गाथा २०५९-२०६५
चरिकाप्रविष्टस्य सामाचारी
९२२ (B)
१. संभावणाया सालंदं-लाडनू। संलवणाए सालंदं-पु. प्रे.॥
For Private and Personal Use Only