________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९२० (A)
.
सूत्रम्-- चरियापविटे भिक्खू जाव चउराय-पंचरायाओ थेरे पासेज्जा, सच्चेव आलोयणा सच्चेव पडिक्कमणा सच्चेव ओग्गहस्स पुव्वाणुण्णवणा चिट्ठइ अहालंदमवि ओग्गहे ॥२०॥
चरियापविटे भिक्खू इत्यादि। चरिकानिमित्तं ये व्रजिकादिषु प्रविष्टास्तेषामेकतमं : परिगृह्येदमुच्यते- चरिकाप्रविष्टो भिक्षुः 'यावत्' परिमाणावधारणे, ततोऽयमर्थः- एकरात्रं द्विरात्रं त्रिरात्रं चतूरात्रं पञ्चरात्रं यावत्, "व्याख्यानतो विशेषप्रतिपत्तिः" इति द्वितीयं तृतीयमपि च पञ्चाहं यावदिति द्रष्टव्यम्, स्थविरान् पश्येत्, कुत्र पश्येत् ? इति चेत्, उच्यतेअभिनिचारिकां गन्तुं मुत्कलापितेनाऽऽचार्येण यत्र सन्देशको दत्तस्तत्र स्थविरैः सह सैवाऽऽलोचना तिष्ठति या अन्यस्माद् गणादागतेनोपसम्पद्यमानेन वितीर्णा । तदेव च प्रतिक्रमणं यदवसन्नादागत्य तस्मिन् गच्छे उपसम्पद्यमानेन तस्मात् स्थानात् प्रतिक्रान्तम् । सैव चावग्रहस्य पूर्वानुज्ञापना तिष्ठति या अन्यस्माद् गणादागतेनोपसम्पद्यमानेन साधर्मिकावग्रहस्यानुज्ञापना कृता। 'यथालन्दमपि' यथाकालमपि, 'अपिशब्दः' अत्र सम्भावने, न केवलं यथाकालं किन्तु चिरमपि कालं यावत ततो गच्छात् तस्य भावो न विपरिणमति तावद् 'अवग्रहे' १.पि यथाकालं वा. मो. पु. सं.॥
सूत्र
२०-२३ चरिकायां सामाचारी
९२० (A)
For Private and Personal Use Only