________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ | उद्देशकः ९१९ (B)
मासलघु, स्वच्छन्दचारित्वात्। यावद् ग्रहणादेवं परिपूर्णः पाठो द्रष्टव्यः। ___"कप्पति ग्रहं थेरे आपुच्छित्ता एगयतो अभिनिचारियं चारए । थेरा य से वियरेज्जा : एवं ण्हं कप्पड़ एगयतो अभिनिचारियं चारए; थेरा य से नो वियरेज्जा एवं हं नो कप्पड़ एगयतो अभिनिचारियं चारए। जं तत्थ थेरेहिं अवितिण्णे एगयतो अभिनिचारियं चरंति से संतरा छेदे वा परिहारे वा।" ___ अस्य व्याख्या- यत एवं स्वच्छन्दचारितायां मासलघु तस्मात् कल्पते ण्हमिति पूर्ववत् : स्थविरानापृच्छ्य एकत: अभिनिचारिकां चरितुम्। आपृच्छायामपि कृतायां यदि स्थविरा वितरेयुरनुजानीयुरेवं एहमिति प्राग्वत् कल्पते अभिनिचारिकां चरितुम्। स्थविराश्च न | सूत्र १९
गाथा वितरेयुः नानुजानीयुः प्रत्यपायं पश्यन्तः प्रयोजनाभावतो वा, ततो न कल्पते एकतः ।
२०५५-२०५८ अभिनिचारिकां चरितुम्। यत्पुनस्तत्र स्थविरैरवितीर्णेऽननुज्ञाते एकतोऽभिनिचारिकां अभिनिचरन्ति तन्निमित्तं से तेषां प्रत्येकमन्तरात् अन्तरं नाम तस्मात्स्थानादप्रतिक्रमणं तस्मात् छेदः
चारिका परिहारो वा। उपलक्षणमेतदन्यद्वा तपः प्रायश्चित्तमिति ।।
९१९ (B) | १. 'त् स्थानात् छे मो. ॥
܀܀܀܀܀܀܀܀
For Private and Personal Use Only