________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९१९ (A)
प्रकारान्तरेण सम्बन्धमाहअहवा तदुभयहेउं, आइण्णो सो बहुस्सुयगणो उ । उस्सूर भिक्ख खेत्ते, चइयाणं चारियाजोगो ॥ २०५८ ॥
अथवेति प्रकारान्तरोपदर्शने। स बहुश्रुतस्य गणस्तदुभयहेतोः सूत्रार्थतदुभयनिमित्तं बहुभिः प्रातीच्छिकैराकीर्णः समाकुलः । तथा तस्मिन् क्षेत्रे उत्सूरे भिक्षावेला चिरं च परिभ्रम्यते, लभ्यते च रूक्षं भैक्षं, ततः केचित् रूक्षेण दुर्बलीभूताः क्षपका वा दुर्बला अभवन्, ग्लानोत्थिता वा सीदन्ति। एवं तेन क्षेत्रेण त्याजितानां केषांचित् चरिकायोगो भवति, ततश्चरिकायोगप्रतिपादनार्थमधिकृतं सूत्रम्॥ २०५८ ॥ एवमनेन सम्बन्धेनायातस्यास्य व्याख्या__ बहवस्त्रिप्रभृतिकाः साधर्मिकाः सांभोगिका इच्छेयुः, एकतः सहिता इत्यर्थः, अभिनिचारिकाम् अभिमुख्येन नियता चरिका सूत्रोपदेशेन बहिजिकादिषु दुर्बलानामाप्यायननिमित्तं पूर्वाह्ने काले समुत्कृष्टं समुदानं लब्धुं गमनं अभिनिचारिका, तां चरितुं समाचरितुं, कर्तुमित्यर्थः एवमेतेषामिच्छतां कल्पते, नो एहमिति वाक्यालङ्कारे, स्थविरानाचार्याननापृच्छय एकतः संहतानामभिनिचारिकां चरितम्। यदि पुनः स्थविरान् अनापृच्छ्य व्रजन्ति ततः प्रायश्चित्तं
सूत्र २९
गाथा २०५५-२०५८
अभिनिचारिका
| ९१९ (A)
For Private and Personal Use Only