________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः। ९१८ (A)
अमुगं ति सो अगीतो, विहरइ कप्पेण गीयसिस्सस्स । अहमवि य तस्स कप्पा, जं वा भयवं उवदिसंति ॥ २०५५ ॥
एवं पृष्टः सन् यस्तत्र सर्वरत्नाधिकोऽगीतोऽगीतार्थ आचार्यस्तं कथयति, यथा अमुकं निश्रायाहं विहरामि। एतावता 'जे तत्थ सव्वराइणिए तं वएज्जा' इति व्याख्यातम्। एवमुक्ते ते चिन्तयन्ति- यमेष प्राह सोऽगीतोऽगीतार्थस्ततो भूयः पृच्छन्ति, कस्य कल्पेन कस्य गीतार्थस्य निश्रया भवान् विहरति? एतेन 'अहं भंते कस्स कप्पाए' इति व्याख्यातम्, स प्राह यस्तत्रबहुश्रुततया गीतार्थस्तस्य शिष्यस्य कल्पेन समस्तो गणो विहरति, अहमपि च तस्य कल्पाद् विहरामि। यं वा भगवन्त उपदिशन्ति यथा-अस्याज्ञा कर्तव्या तस्याज्ञोपपातवचननिर्देशेषु स्थास्यामि । एतेन 'जं वा से भयवं अक्खाति' इत्यादि व्याख्यातम् ॥२०६३ ।।
इदमेव स्पष्टं भावयतिरायणियस्स उ गणो, गीयत्थोमस्स विहरई निस्सा ।
जो जेण होति महितो, तस्साणादी न हामि ॥ २०५६ ॥ १. अमुकनि वा. मो. पु. सं. ॥
सूत्र १९
गाथा २०५५-२०५
अभिनिचारिका
९१८ (A)
For Private and Personal Use Only