________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९१७ (B)|
एवं सिढे अटे, सो बेती कत्थ भे अहीयं ति । अमुगस्स सति सगासे, अहगंपी तत्थ वच्चामि ॥ २०५३ ॥
एवमाचाराङ्गगतसूत्रस्यार्थे शिष्टे कथिते सति स ब्रूते-कुत्र भे भवता त्वयाधीतम्? इति स प्राह- अमुकस्य सकाशे समीपे । ततः सोऽध्येता चिन्तयति-अहमपि तत्र व्रजामि ॥२०५३॥
܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀
एवं चिन्तयित्वासो तत्थ गतोऽधिजति, मिलितो सझंतिएहिं उब्भामे । पुट्ठो सुत्तत्था ते, सरंति निस्साए कं विहरे ॥ २०५४ ॥
स तत्र गतः, गत्वा च अध्येति, एतद्विषयमधिकृतं सूत्रम्, अधुना सूत्रव्याख्यानमाहसोऽधीयानोऽन्यदा उद्भ्रामे उद्भ्रामकभिक्षानिमित्तं गतः, तत्र केचित्साधर्मिकाः केचिदन्यगच्छवर्तिनः साधवः सहाध्यायिनो मिलिताः । तैः सझंतिएहिं ति सहाध्यायिभिः पृष्टःते तव सूत्रार्थाः सरन्ति निर्वहन्ति ? तथा कं निश्राय आश्रित्य भवान् विहरति? ॥२०५४॥
गाथा ४२०४८-२०५४
सूत्राऽर्थाऽध्ययनादिः
९१७ (B)
For Private and Personal Use Only