________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
..
.
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः
९१७ (A)
अहवा अत्तीभूतो, सचित्तादीहिं होइ दव्वम्मि । भावे कोहादीहिं, अभिभूतो होति अट्टो उ ॥ २०५१ ॥
अथवा सचित्तादिभिर्द्रव्यैरसंप्राप्तैः प्राप्तवियुक्तैर्वा य आर्त्तः स द्रव्यातः, द्रव्यैरार्लो द्रव्यात इति व्युत्पत्तेः। क्रोधादिभिरभिभूतो नोआगमतो भावार्त्तः ॥ २०५१ ॥
तदेवमातशब्दार्थ उक्तः। सम्प्रति परिजीर्णशब्दार्थमाहपरिजुण्णो उ दरिद्दो, दव्वे धण-रयणसारपरिहीणो । भावे नाणादीहिं, परिजुण्णो एस लोगो उ ॥ २०५२ ॥
परिजीर्णोऽपि चतुर्विधः। तद्यथा-नामपरिजीर्णः, द्रव्यपरिजीर्णः, स्थापनापरिजीर्णो, भावपरिजीर्णश्च। तत्र नामस्थापने प्रतीते। द्रव्ये द्रव्यतः परिजीर्णो नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो धन-रत्नसारपरिहीणो दरिद्रः । भावे भावतः परिजीर्णो ज्ञानादिभिः परिहीण एष समस्तोऽपि लोकः ॥२०५२ ॥
गाथा २०४८-२०५४
सूत्राऽर्थाऽध्ययनादिः
| ९१७ (A)
For Private and Personal Use Only