________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः
९१५ (B)
भिक्षाचरप्रचुरे ग्रामे भिक्षार्थमटन्तं दृष्ट्वा कश्चित्साधर्मिको वदेत्- कमाचार्यमुपसम्पद्य त्वं विहरसि? एवं पृष्टः सन् यस्तत्र सर्वरत्नाधिको गीतार्थ आचार्यस्तं वदेत् । तस्मिन्नुक्ते स
परिकल्पयति- यमेष व्यपदिशति सोऽगीतार्थः, न चायमगीतार्थनिश्रया विहरति । ततो भूयः | पृच्छति- अथ भदन्त कस्य कल्पेन, सूत्रे स्त्रीत्वं प्राकृतत्वात, कस्य निश्रया त्वं विहरसि? : एवमुक्ते यस्तत्र सर्वबहुश्रुतस्तं वदेत् यथा तस्य सर्वरत्नाधिकस्याचार्यस्यागीतार्थस्य यः शिष्यो गीतार्थ: सूत्रार्थनिष्णात: समस्तस्यापि गच्छस्य तप्तिकारी तन्निश्रयाहं विहरामीत्यादि वदेत्। यं च स भगवानाख्याति, यथैतस्याज्ञा त्वया कर्तव्या। तस्याज्ञायामुपपाते- समीपे वचननिर्देशे च, आदेशप्रतीच्छायां स्थास्यामीति सूत्रसंक्षेपार्थः । अधुना भाष्यकृत्सूत्रं व्याख्यातुकामः प्रथमतः सूत्रविषयमुपदर्शयति
पव्वावितो अगीतेहिं, अन्नहिं गंतूण उभयनिम्मातो । आगम्म सेस साहण, ततो य साहू गओ अण्णत्थ ॥ २०४७ ॥
कश्चिदगीतैरगीतार्थैराचार्यैः प्रताजितः सोऽन्यत्र गणे गत्वा उभयतः- सूत्रतोऽर्थतश्च निर्मातोऽभवत् । ततः स स्वगणे आगम्य शेषाणां गीतार्थानां साधूनां साधनं करोति
सूत्र १८
गाथा २०४३-२०४७
गीतार्थनिश्रया विहरणम्
९१५ (B)
For Private and Personal Use Only