________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम् चतुर्थ उद्देशकः
९१४ (B)
एतौ-अनन्तरोदितौ द्वावप्यादेशौ मिश्रकसूत्रे भवतो ज्ञातव्यौ। प्रथमद्वितीययोः पुनः सूत्रयोरिदमादेशविषयं प्रत्येकं नानात्वम् ॥ २०४४ ॥ तदेवाहचउरो य पंच दिवसा, चउग्गुरुं एव होति छेदो वि । तत्तो मूलं नवम, चरमंपि य एगसरगं तु ॥ २०४५ ॥
प्रथमे द्वितीये च सूत्रे प्रत्येकमिमावादेशौ । प्रथम आदेश:- तस्मिन् विवक्षिते कल्पाके जाते सति यदि चतुरो दिवसानतिवाहयति तदा चतुर्गुरु ततो भूयो भूयश्चतुश्चतुर्दिनातिक्रमे षड्लघु, षड्गुरुकम्, एवं छेदोऽपि त्रिधा वक्तव्यः, तदनन्तरं मूलं नवममनवस्थाप्यम्, चरमं पाराञ्चितमेकसरकम् एकैकदिनातिक्रमे वक्तव्यम् । द्वितीय आदेश:- पञ्चदिवसातिक्रमे चतुर्गुरु, एवं पञ्च पञ्चातिक्रमे, भावार्थः प्रागेव सप्रपञ्चं भावितः । एतच्चादेशद्वयं प्रथमसूत्रे द्वितीयसूत्रे च स्वस्थानेऽपि नोक्तं, लाघवात् ॥ २०४५ ॥
सूत्र १८
गाथा २०४३-२०४७
गीतार्थनिश्रया विहरणम्
९१४ (B)
For Private and Personal Use Only