________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९१४ (A)
छेदोत्ति ततः परमेवं छेदस्त्रिधा वक्तव्यः, स चैवं- ततोऽपि परतो यद्यन्यानि दश दिनानि लयति तर्हि चतुर्गरुकश्छेदः। ततोऽपि परतो दिनदशकातिक्रमे षड्लघुकश्छेदः, ततोऽन्यदशदिवसातिक्रमे षड्गुरुकश्छेदः । मूलं अणवट्ठप्पो य पारंची इति, तत एकदिवसातिक्रमे मूलं, ततोऽपि परमेकदिनातिक्रमे अनवस्थाप्यो भवति, ततोऽपि परमेकस्य दिवसस्यातिवाहने पाराञ्चिको जायते ॥ २०४२॥ |
एसादेसो पढमो, बितिए तवसा अदम्ममाणम्मि । उभयबलदुब्बले वा, संवच्छरमा दिसा हरणं ॥ २०४३ ॥
एषः अनन्तरोदित आदेश: प्रथमः। द्वितीये आदेशे पुनस्तपसा, उपलक्षणमेतत्, छेदेन वा अदम्यमाने, यदि वा उभयबलेन धृतिबलेन कायबलेन च, उपलक्षणमेतदन्यतरैकबलेन वा दुर्बले तपसः छेदस्य वा दातुमशक्यतया संवत्सरं यावत् दिश: आचार्यत्वस्य हरणम् ॥ २०४३॥
एते दो आदेसा, मीसगसुत्ते हवंति नायव्वा । पढम-बिईएसुं पुण, सुत्ते इमं तु नाणत्तं ॥ २०४४ ॥
सूत्र १८
गाथा २०४३-२०४७
गीतार्थनिश्रया विहरणम्
९१४ (A)
For Private and Personal Use Only