________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९१३ (B)
सम्प्रति स्मरणाऽस्मरणं भावयतिजाहे सुमरइ ताहे, असाहगं रिक्ख-लग्ग-दिणमादी । बहुविक्खेवंम्मि य गणे, सरियंपि पुणो वि विस्सरति ॥ २०४१ ॥
यदा स्मरति तदा असाधकमप्रयोजकमृक्ष-लग्न-दिनादि, आदिशब्दात् मुहूर्तादिपरिग्रहः। बहुव्याक्षेपे च गणे गच्छे स्मृतमपि पुनरपि विस्मरति, तत एवं स्मरणास्मरणसम्भवः ।। २०४१॥
अत्रैव प्रायश्चित्तविधिं सविशेषमाहदसदिवसे चउगुरुगा, दसेव छलहुग छग्गुरू चेव । तत्तो छेदो मूलं, अणवठ्ठप्पो य पारंची ॥ २०४२ ॥
तस्मिन्नधिकृते कल्पाके जाते सति यदि स्मरणास्मरणतो दश दिवसानतिक्रामति, ततस्तस्यानुपस्थापयतः प्रायश्चित्तं चत्वारो गरुकाः, ततः परमप्यन्यानि दशैव चेत दिनान्यतिवाहयति ततः षड्लघुकम्। ततः परतोऽपि दिनदशकातिक्रमे षड्गुरुकम्। तत्तो
सूत्र १७
गाथा २०३९-२०४२ उपस्थापना
विलम्बे प्रायश्चित्तम्
९१३ (B)
For Private and Personal Use Only