________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९११ (A)
तेषामुपस्थाप्यमानानामावलिका गुरोर्वामपार्श्वे गजदन्तवत् ईषदवनम्य अवनतीभूय स्थिताः। तत्र यदि ते गुरुसमीपमग्रतोऽभिसरन्ति तदा गच्छस्य वृद्धिर्ज्ञातव्या, यथान्येऽपि बहवः प्रव्रजिष्यन्तीति। अथ पश्चात् बहिरपसरन्ति तदा स उपस्थाप्यमानोऽन्यो वा उन्निष्क्रमिष्यति अपद्रविष्यति चेति ज्ञातव्यमेतद् निमित्तकथनम् ॥२०३५ ॥
सूत्रम्- आयरिय-उवज्झाए असरमाणे परं चउरायपंचरायातो कप्पागं भिक्खुं नो उवट्ठावेइ तं चेव भाणियव्वं ॥ सू. १६ ॥
अस्य व्याख्या प्राग्वत् । नवरं तं चेव भाणियव्वं इति वचनादेवं परिपूर्णः पाठो द्रष्टव्यः- कप्पाए अत्थि याई से केइ माणणिज्जे कप्पागे, नत्थि याइं से केइ छेए | वा परिहारे वा, नत्थि याइं से केइ माणणिज्जे कप्पाए, से संतरा छेदे वा परिहारे वा ॥
अस्यापि व्याख्या प्राग्वत् । तत्र यैः कारणैर्न स्मरति तान्युपदर्शयन्नाहदप्पेण१ पमाएण वर, विक्खेवेण व३ गिलाणतो वावि४ । एएहि असरमाणे, चउव्विहं होइ पच्छित्तं ॥ २०३६ ॥
सूत्र १६
गाथा २०३३-२०३८ उपस्थापनाविस्मरणे प्रायश्चित्तम्
९११ (A)
For Private and Personal Use Only