SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् एककालमुपस्थाप्यमानेषु अणभिजोगत्ति गुरुणा अन्येन वाभियोगो न कर्तव्यः, यथा इतस्तिष्ठथ इतस्तिष्ठथेति। किन्त्वेकतः पार्श्वे द्विधातो वा द्वयोर्वा पार्श्वयोर्यथैव स्थिताः स्वस्वभावेन तेषामावलिका तथैव तिष्ठतु । तत्र यो यथा गुरोः प्रत्यासन्नः स तथा ज्येष्ठः, ये तूभयोः समश्रेण्या स्थितास्ते समरत्नाधिकाः। चतुर्थ उद्देशकः ९१० (B) ___ इदानीं पूर्वगाथापश्चार्धव्याख्या- ईसर इत्यादि, यथा द्विप्रभृतयो राजान उक्ता एवं द्विप्रभृतयः ईश्वराः, द्विप्रभृतयः श्रेष्ठिनः द्विप्रभृतयोऽमात्याः, द्विप्रभृतयः निगमा: वणिजः, घडत्ति गोष्ठी द्विप्रभृतयो गोष्ठ्य, यदि वा द्विप्रभृतयो गोष्ठिकाः, यदि वा कुलत्ति द्विप्रभृतयो महाकुलाः, द्विकग्रहणमुपलक्षणं, तेन त्रिप्रभृतय इति (इत्याद्यपि) द्रष्टव्यं, तथैव च व्याख्यानम्। खुड्डत्ति क्षल्लकाः समकं प्रवाजिता इत्यर्थः, समकं सूत्रादिभिः प्राप्ताः समकं रत्नाधिकाः कर्तव्याः। एतेषामेव मध्ये यः पूर्वं प्राप्तः स पूर्वमुपस्थाप्यते इति वृद्धसम्प्रदायः ॥२०३३ ।।२०३४ ॥ ईसिं अण्णोअत्ता, वामे पासम्मि होइ आवलिया। अभिसरणम्मि य वड्डी, ओसरणे सो व अण्णो वा ॥ २०३५ ॥ सूत्र १६ गाथा २०३३-२०३८ उपस्थापनाविस्मरणे प्रायश्चित्तम् ९१० (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy