________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम् चतुर्थ उद्देशकः
९१० (A)
राया रायाणो वा दोण्णि, वि सम पत्त दोसु पासेसु । ईसर सेट्ठि अमच्चे, निगम घडा कुल दुए खुड्डे ॥ २०३३ ॥ समगं तु अणेगेसुं, पत्तेसुं अणभिजोगमावलिया । एगतो दुहतो व ठिया, समराइणिया जहाऽऽसन्नं ॥ २०३४ ॥
एको राजा, द्वितीयो राजराजः, तौ समकं प्रव्रजितौ । अत्रापि यथा पितापुत्रयोः राजाऽमात्ययोर्वा प्रागुक्तं तथा निरवशेषं वक्तव्यम्, केवलममात्यादिके सूत्रादिभिः प्राप्ते उपस्थाप्यमाने यदि राजादिरप्रीतिं करोति, दारुणस्वभावतया ब्रूते वा किमपि परुषम्, तदा सोऽप्राप्तोऽपीतरैरमात्यादिभिः सममुपस्थाप्यते। अथवा रायत्ति यत्र एको राजा तत्र सोऽमात्यादीनां सर्वेषां रत्नाधिक: कर्तव्यः। रायाणोत्ति यत्र पुनर्द्विप्रभृतयो राजानः समकं प्रव्रजिता: समकं च सूत्रादिभिः प्राप्ताः ते समरत्नाधिकाः कर्तव्या इत्युपस्थाप्यमाना द्वयोः पार्श्वयोः स्थाप्यन्ते अत्रैवार्थे विशेषमाह
पूर्वं पितापुत्रादिसम्बन्धेनासम्बद्धेष्वनेकेषु राजसु समकं सूत्रादिभिः प्राप्तेष्वत एव |
सूत्र १६
गाथा
२०३३-२०३८ उपस्थापनाविस्मरणे प्रायश्चित्तम्
९१० (A)
For Private and Personal Use Only