________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९०९ (B)
वस्तुस्वभावं वा ज्ञात्वाऽमात्यस्य प्रतीक्षापणम्। यदि वा वक्ष्यमाणोऽत्र विशेषः । यथा चामात्यस्य राज्ञा सहोक्तमेवमादिग्रहणसूचितयोः श्रेष्ठि-सार्थवाहयोरपि वक्तव्यमिति । संजइमझे महादेवी इति, द्वयोर्मातादुहित्रोईयोर्मातादुहितृयुगलयोर्महादेव्यमात्ययोश्च सर्वमेवं निरवशेषं वक्तव्यम् । २०३१॥
सम्प्रति यदुक्तं 'वोच्चत्थ मग्गणा होइ' इति तद् व्याख्यानार्थमाहदो पत्त पिया-पुत्ता, एगस्स तु पुत्त पत्त न उ थेरो । गहितो व सयं वियरइ, राइणितो होउ एस वि य ॥ २०३२ ॥
द्वौ पितापुत्रौ प्राप्तौ एकस्य तु पितापुत्रस्य युगलस्य पुत्रः प्राप्तो न तु स्थविरः, स | आचार्येण वृषभेण वा प्रज्ञापनां ग्राहितः स्वयं वितरति अनुजानाति तदा तत्क्षुल्लक उपस्थाप्यते। अथ नेच्छति तदा पूर्ववद्राजदृष्टान्तेन प्रज्ञापना । अन्यच्चैतौ पितापुत्रौ रत्नाधिको भविष्यतः एषोऽपि च तव पुत्रो यदि रात्निकः रत्नाधिको भवति भवतु नाम तव लाभ एष इति । तथाऽप्यनिच्छायां पूर्ववदुपेक्षादि ॥ २०३२ ॥
गाथा २०३०-२०३२ उपस्थापनासामाचारी
९०९ (B)
For Private and Personal Use Only