________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ उद्देशकः ९०९ (A)
स्थविरक्षुल्लकस्य च विपर्ययस्ततो मार्गणा भवति कर्तव्या। सा चैवम्- द्वौ क्षुल्लको प्राप्तौ एकश्च स्थविरः प्राप्तः एको न प्राप्तः। तत्र यो न प्राप्तः स आचार्येण वृषभैर्वा प्रज्ञाप्यते, प्रज्ञापितः सन् यद्यनुजानाति तदा तत्क्षुल्लक उपस्थाप्यते। तथाप्यनिच्छायां राजदृष्टान्तेन तथैव प्रज्ञापना । अयं चात्र विशेष:- सोऽप्राप्त: स्थविरो भण्यते- एष तव पुत्रः परममेधावी सूत्रादिभिः प्राप्त इत्युपस्थाप्यताम्, यदि पुनस्त्वं न मुत्कलयसि तदेतौ द्वावपि पितापुत्रौ रत्नाधिको भविष्यतः तस्माद्विसर्जय एनमात्मीयं पुत्रम्, एषोऽपि तावद्भवतु रत्नाधिक इति। अतोऽपि परमनिच्छायामुपेक्षा वस्तुस्वभावं वा ज्ञात्वा तत् क्षुल्लकस्य प्रतीक्षापणमिति। रन्नो य अमच्चाई इत्यादि पश्चार्धम्, राजा अमात्यश्च समकं प्रवजितौ, समकमेव च सूत्रादिभिः प्राप्तौ, ततो युगपत् तौ द्वाप्युपस्थाप्येते। अथ राजा सूत्रादिभिः प्राप्तो न अमात्यः, राज्ञ उपस्थापना। अथामात्यः सूत्रादिभिः प्राप्तो न राजा ततो यावदुपस्थापनादिनमागच्छति तावदादरेण राजा शिक्ष्यते, ततो यदि प्राप्तो भवति ततो युगपदुपस्थापना। अथ तथापि राजा न प्राप्तस्तदा तेनानुज्ञाते अमात्य उपस्थाप्यते। अथ नेच्छति तदा पूर्ववद् दण्डिकदृष्टान्तेन राज्ञः प्रज्ञापना, तथापि चेन्नेच्छति ततः पञ्च दिवसान्यावदमात्यस्य प्रतीक्षापणम्। तथापि चेद् न प्राप्तो भूयः प्रज्ञापना। तथाऽप्यनिच्छायां पुनः पञ्चाहं प्रतीक्षणम् । एवं तृतीयपञ्चाहमपि। तथाप्यनिच्छायामुपेक्षा,
गाथा
२०३०-२०३२ उपस्थापनासामाचारी
९०९ (A)
For Private and Personal Use Only