________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशकः ९०७ (B)
निर्विकृतिका वा भवन्ति। येषामावलिकायामाचाम्लं ते आचाम्लं कुर्वन्ति, येषां तु निर्विकृतिकं ते निर्विकृतिकमित्यर्थः । उक्तं च- "जद्दिवसं उवठावितो तद्दिवसं केसिंचि अभत्तट्ठो भवति केसिंचि आयंबिलं केसिंचि निव्विगइयं' इत्यादि ॥२०२८ ।।
सम्प्रति माननीयपित्रादिविषये विधिशेषमाहपियपुत्तखुड्डथेरे, खुड्डगथेरे अपावमाणम्मि । सिक्खावणपन्नवणा, दिलुतो दंडियाईहिं ॥ २०२९ ॥
द्वौ पितापुत्रौ प्रव्रजितौ । तौ यदि द्वावपि युगपत् प्राप्तौ तर्हि युगपदुपस्थाप्यते । अथ | खुड्डुत्ति क्षुल्लकः पुत्रः सूत्रादिभिरप्राप्तः, थेरत्ति स्थविरः सूत्रादिभिः प्राप्तस्तर्हि स्थविरस्योपस्थापना विधेया। खुड्डत्ति यदि पुनः क्षुल्लक: सूत्रादिभिः प्राप्तः, स्थविरो नाद्यापि प्राप्तो भवति, तर्हि तस्मिन् स्थविरे सूत्रादिकमप्राप्नुवति यावदुपस्थापनादिवसः शुद्धः समागच्छति तावत्स्थविरस्य प्रयत्नेन शिक्षापना क्रियते, आदरेण शिक्ष्यत इत्यर्थः, तत्र यदि उपस्थापनादिवसमर्यादया प्राप्तो भवति ततो द्वावपि युगपदुपस्थाप्येते । अथादरेण शिक्ष्यमाणेऽपि न
गाथा २०२५-२०२९ उपस्थापनासामाचारी
९०७ (B)
For Private and Personal Use Only