________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः
वोच्चारादि व्युत्सर्जनमिति। त्रसेष्वपि च पृथिव्यामिव वक्तव्यम् । कीटिकानगराद्यतिप्रत्यासन्नमुच्चारादि स्थानादि वा करोतीति भावः। तत्र यदि वारयति तदा ज्ञायते 'सम्यक् परिणतोऽस्य धर्मः' इति योग्य उपस्थापनायाः। एवमेव गोचरगतेऽपि तस्मिन् कायैः पृथिव्यादिभिर्भवति परीक्षा कर्तव्या। तद्यथा- सरजस्केनोदकाट्टैण हस्तेन वा मात्रकेण वा भिक्षा ग्राह्यते इत्यादि, परीक्षितस्य च व्रतारोपणं कर्तव्यम् ॥२०२७॥
९०७ (A)
तथा चाहदव्वादि पसत्थ वया, एक्केक्क तिगं तु उवरिमं हेट्ठा । दुविहा तिविहा व दिसा, आयंबिल निव्विगइगा वा ॥ २०२८ ॥
द्रव्यादौ प्रशस्ते व्रतान्यारोपणीयानि, एकैकं व्रतं त्रिकं त्रि:कृत्व: उच्चारयन्ति कथम्? इत्याह-उवरिमं हेट्ठा अधस्तान्मूलादारभ्य यावदुपरितनं पर्यन्तवर्तिसूत्रम्, इदमेकमुच्चारणम्, एवं त्रिन्वारान्। दिग् निबध्यते द्विविधा त्रिविधा वा, तत्र साधोर्द्विविधा, तद्यथाआचार्यस्योपाध्यायस्य च; वतिन्यास्त्रिविधा, तद्यथा-आचार्यस्योपाध्यायस्य प्रवर्तिन्याश्च । तथा उपस्थापनानन्तरं तपः कार्यते, तच्च अभक्तार्थमाचाम्लं व्रतोच्चारणानन्तरमाचाम्लिका
गाथा २०२५-२०२९ उपस्थापनासामाचारी
९०७ (A)
For Private and Personal Use Only