________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
अथ परीक्षामेव वैतत्येनाह
श्री व्यवहार
सूत्रम् चतुर्थ उद्देशकः ९०६ (B)
उच्चारादि अथंडिल, वोसिर ठाणाइ वा वि पुढवीए । नदिमादिदगसमीवे, सागणि निक्खित्त तेउम्मि ॥ २०२६ ॥ वियणऽभिधारण वाए, हरिए जह पुढवीए तसेसुं च । एमेव गोयरगए, होइ परिच्छा उ काएहिं ॥ २०२७ ॥
उच्चारादेः आदिशब्दात्प्रश्रवणादिपरिग्रहः, अस्थण्डिले सचित्तपृथिवीकायात्मिके व्युत्सर्जनं यदि वा स्थानादि स्थानमूर्ध्वस्थानम्, आदिशब्दान्निषदनादिपरिग्रहः, तत् पृथिव्यां पुथिवीकायस्योपरि कुरुते। तथाऽप्कायविषये नद्याधुदकसमीपे अत्राऽऽदिशब्दात्तडागादिपरिग्रहः। तथा तेजसि तेजस्कायविषये सनिक्षिप्ताग्नौ प्रदेशे, गाथायां तु निक्षिप्तशब्दस्यान्यथापाठः प्राकृतत्वात्, उच्चारादेर्युत्सर्जनमिति सर्वत्र सम्बध्यते ॥२०२६ ॥ तथा
वाते वातविषये व्यजनस्य- तालवृन्तस्याभिधारणं वातोदीरणायाऽऽभिमुख्येन धारणं | ४ करोति। हरिते यथा पृथिव्यां तथा वक्तव्यम् हरितकायस्योपरि स्थानादि करोति, यदि |
गाथा २०२५-२०२९ उपस्थापनासामाचारी
९०६ (B)
For Private and Personal Use Only