________________
Shri Mahavir Jain Aradhana Kendra
श्री व्यवहार
सूत्रम्
चतुर्थ
उद्देशक:
९०६ (A)
******
www.kobatirth.org
अनधिगतपुण्य-पापं सूत्रार्थकथनेऽप्यविज्ञातपुण्यपापमुपस्थापयतः प्रायश्चित्तं चत्वारो गुरवः कालगुरुका मासा भवन्ति, आज्ञादयश्चानन्तराभिहिता दोषाः । अत्र मालाया दृष्टान्तः । यथा - स्थाणौ शूलाप्रख्ये पञ्चवर्णसुगन्धपुष्पमालामारोपयतो वचनीयतादयो दोषाः, एवमत्राप्यनधिगतपुण्यपापे व्रतान्यारोपयत आज्ञादय इति ॥२०२४ ॥
उदउल्लादि परिच्छा, अहिगय नाऊण तो वए देंति । एक्केक्कं तिखुत्तो, जो न कुणइ तस्स चउगुरुगा ॥। २०२५ ॥
Acharya Shri Kailassagarsuri Gyanmandir
गोचरादिगतेन उदकार्द्रादिना तस्य परीक्षा कर्तव्या । वृषभेण तत्परीक्षानिमित्तं तेन सह गोचरगतेन उदाकार्द्रेण हस्तेन मात्रकेण वा भिक्षा ग्राह्या, तत्र यदि स वारयति 'निषिद्धमेतत्, कथं यूयमेवं भिक्षार्मंग्राहिषत ?' ततो ज्ञायते एष परिणतसूत्रार्थोऽधिगतपुण्य-पापः । एवं शेषपरीक्षास्वपि भावनीयम् । तत उदकार्द्रादिपरीक्षाभिरधिगतपुण्यपापं ज्ञात्वा ततोऽनन्तरं व्रतानि गुरवो ददति । कथम् ? इत्याह-एकैकं व्रतं त्रिः कृत्वस्त्रीन् वारान् । यः एवं न करोति तस्य चत्वारो गुरुका द्वाभ्यां लघवस्तपसा कालेन च प्रायश्चित्तम् ॥२०२५ ॥ १. मभिगृह्णीथ ? ततो- वा. मो. पु. मु. ॥
For Private and Personal Use Only
गाथा
|२०२५ २०२९ उपस्थापनासामाचारी
९०६ (A)