________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः
९०५ (A)
अप्राप्ते षड्जीवनिकायां पर्यायं वा जघन्यतः षण्मासानुत्कर्षतो द्वादशसंवत्सराणि, तथा अकथयित्वा जीवाजीवादीन्, तथा अनधिगते जीवाजीवादौ, तथा अपरीक्षायां परीक्षाया अभावे, तथा से तस्य उपस्थापयतोऽतिक्रमे, एकैकस्य व्रतस्य वारत्रयमनुच्चारणे, एतेषु सर्वेषु प्रत्येकमेकैकस्मिन् प्रायश्चित्तं चत्वारो गुरुकाः । अथ सूत्रे पर्यायादिकं नोपात्तमिति तत्कथने कथं न सूत्रविरोधः? सूरिराह- हे चोदक! सूत्रमिदं कारणिकं पुरुषविशेषपात्रापेक्षम्, अतः पर्यायाद्यनभिधानेऽपि न दोषः ॥ २०२१ ।।
एनामेव गाथां वैतत्येन भाष्यकद्विवृणोतिअपत्ते उ सुएणं, परियागमुवट्ठवेंते चउगुरुगा । आणादिणो य दोसा, विराहणा छण्ह कायाणं ॥ २०२२॥
श्रुतेन षड्जीवनिकापर्यन्तेनाऽप्राप्ते, पर्यायं वा जघन्यादिभेदभिन्नमप्राप्ते उपस्थाप्यमाने | उपस्थापयितुः प्रायश्चित्तं चत्वारो गुरुकास्तपसा कालेन च गुरवः। न केवलमेतत्, किन्तु १. धः? तत्राऽऽह - वा. मो. पु. सं. मु. ॥
गाथा २०१९-२०२४
अयोग्ये उपस्थापनानिषेधादिः
९०५ (A)
For Private and Personal Use Only