________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९०४ (B)
सामायिकमिति तदनुज्ञानिमित्तं विधिना त्रिगुणं प्रादक्षिण्यं कार्यते। तत्र तृतीयस्यां प्रदक्षिणायामनुज्ञा क्रियते, यथा निस्तारको भव, गुरुगुणैर्विवृद्धिर्भवतु, वर्धस्वेत्यर्थः ॥ २०१९॥
एवं प्रवाजनायां कृतायां यत्कर्तव्यं तदाहफासुय आहारो से, अणहिंडंतो य गाहए सिक्खं । ताहे उ उवट्ठावण, छज्जीवणियं तु पत्तस्स ॥ २०२० ॥
प्रव्रज्याप्रदानानन्तरं से तस्य प्रासुक आहारो दीयते। स च भिक्षां न हिण्डाप्यते, किन्त्वहिण्डमान एव शिक्षा ग्रहणशिक्षामासेवनाशिक्षां च ग्राह्यते। ततः षड्जीवनिकां च प्राप्तस्याधीतषड्जीवनिकाध्ययनस्य उपस्थापना क्रियते॥ २०२०॥
गाथा २०१९-२०२४
अयोग्ये उपस्थापनानिषेधादिः
विपक्षे प्रायश्चित्तविधिमाहअप्पत्ते अकहेत्ता, अणहिगय अपरिच्छ अतिक्कमे वा से । एक्कक्के चउगुरुगा, चोयग! सुत्तं तु कारणियं ॥ २०२१ ॥
| ९०४ (B)
For Private and Personal Use Only