SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहार सूत्रम् चतुर्थ उद्देशकः ९०४ (A) आदिशब्दाद् मुहूर्तादिपरिग्रहः, त्वरमाणे शीघ्रं समापतति यथाजातं सनिषद्य-रजोहरणमुखवस्त्रिकाऽग्रपूररूपं दीयते । उक्तं च- 'जहाजायं नाम सनिसेजं रयहरणं मुहपोत्तिया चोलपट्टो य' इति। ततो यदि गुरुः स्थिरहस्त: न कम्पते अट्टा गृह्णानस्य हस्तः, तर्हि स स्वयमेव जघन्येन तिस्रोऽट्टा अव्यवच्छिन्ना गृह्णाति, समर्थः सर्वं वा लोचं करोति ।। २०१८॥ अण्णो वा थिरहत्थो, सामाइय तिगुण अट्टगहणं च । तिगुणं पादक्खिण्णं, नित्थारग गुरुगणविवड्डी ॥ २०१९ ॥ आचार्यस्य स्थिरहस्तत्वाभावे अन्यो वा स्थिरहस्तः प्रव्राजयति समस्तं लोचं करोतीति भावः। तदनन्तरं गुरु: शोभने लग्नादौ प्राप्ते त्रिगुणं त्रीन् वारान् सामायिकमुच्चारयति। इयमत्र भावना -प्रथमतः प्रव्राजनीयमात्मनो वामपार्श्वे स्थापयित्वा चैत्यानि तेन सह वन्दन्ते, ततः परिहितचोलपट्टस्य रजोहरणं मुखवस्त्रिकां च ददाति। तदनन्तरमट्टाग्रहणं लोचं वा | कृत्वा सामायिकारोपणनिमित्तं कायोत्सर्ग करोति, तत्र चतुर्विंशतिस्तवं चिन्तयित्वा नमस्कारेण पारयित्वा चतुर्विंशतिस्तवमाकृष्य त्रि:कृत्वः सामायिकमुच्चारयति। तदनन्तरमर्थग्रहणं स कारयितव्यः। सामायिकार्थस्तस्य व्याख्यायते इति भावः। ततः सूत्रतोऽर्थतश्च गृहीतं गाथा २०१९-२०२४ अयोग्ये उपस्थापनानिषेधादिः ९०४ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy