________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९०३ (B)
गोयर अचित्तभोयण, सज्झायमण्हाण भूमिसेज्जाती । अब्भुवगयम्मि दिक्खा, दव्वादीसुं पसत्थेसुं ॥ २०१७॥
यावज्जीवं गोचरचर्यया भिक्षामटित्वा अचित्तस्यैषणादिशुद्धस्य भोजनं कर्तव्यम् । तदपि |* बाल-वृद्ध-शैक्षकादिसंविभागेन। तथा चतुष्कालं स्वाध्यायो विधातव्यः । यावज्जीवं देशतः सर्वतश्चास्नानम्। ऋतुबद्धे काले भूमौ शय्या। आदिशब्दाद्वर्षारात्रे फलकादिषु शयनम्, दिवसे न स्वप्तव्यम्, रात्रौ तृतीये यामे निद्रामोक्षः । एवमुक्ते यद्यभ्युपगच्छति तत एतस्मिन्नभ्युपगते तस्य दीक्षा प्रशस्तेषु द्रव्यादिषु प्रशस्ते द्रव्ये शाल्यादिसञ्चयादौ, प्रशस्ते क्षेत्रे गम्भीरसानुनादादौ, प्रशस्ते काले शुभतिथ्यादौ, प्रशस्ते भावे प्रवर्धमानपरिणामादौ दातव्या ॥ २०१७॥
गाथा लग्गादी च तुरंते, अणुकूले दिजए उ अहजायं ।
२०१५-२०१८ सयमेव तु थिरहत्थो, गुरू जहण्णण तिण्णऽद्रा ॥ २०१८ ॥
दीक्षाविधिः इहोत्सर्गतो लोचे कृते यथाजाते च रजोहरणादिके समर्पिते पश्चात् त्रि:कृत्वः सामायिक- ९०३ (B) मुच्चार्यते, इत्येष विधिः । यदि पुनर्लग्नादिकं त्वरमाणं स्यात्ततोऽनुकूले लग्नादौ च,
For Private and Personal Use Only