SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir व्यवहारसूत्रम् चतुर्थ उद्देशकः ९०३ (A) ܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀܀ भिक्षौ कल्पाके जाते सति यदि तस्य माननीयः पित्रादिरुपस्थाप्योऽस्ति, परमद्यापि कल्पाको नोपजायते, तर्हि स जघन्यतः पञ्चरात्रं प्रतीक्षाप्यते, मध्यमतो दशरात्रम्, उत्कर्षतः पञ्चदशरात्रं, तथापि चेन्माननीयः कल्पाको नोपजायते, तर्हि स कल्पाको भिक्षुरुपस्थापनीयः, नो | चेदुत्थापयति तर्हि छेदः परिहारो वा प्रायश्चित्तम्। अथ तस्य माननीयाः पित्रादयो न सन्ति, ततस्तेषामसत्यभावे यदि तं चतूरात्रमध्ये पञ्चरात्रमध्ये वा नोपस्थापयति तथापि तस्य प्रायश्चित्तं छेदः परिहारो वा। छेद-परिहारग्रहणं सूचामात्रम्, तेनाऽऽदेशद्वयेन प्रागुक्तः प्रायश्चित्तविधिः । द्रष्टव्यः ॥ २०१५॥ अच्छउ ता उवठवणा, पुव्विं पव्वायणादि वत्तव्वा । अडयालपुच्छसुद्धे, भन्नति दुक्खं खु सामन्नं ॥ २०१६ ॥ गाथा तिष्ठतु तावदुपस्थाप प्रव्राजनादिवक्तव्यता वक्तव्या। तत्र यथा पञ्चकल्पे २०१५-२०१८ दीक्षाविधिः निशीथे वा अष्टा चत्वारिंशत्पृच्छाशुद्धोऽभिहितस्तथा अष्टाचत्वारिंशत्पृच्छाशुद्धे कृते | तत्सम्मुखमिदं भण्यते- दुःखं खु श्रामण्यं परिपालयितुम् ॥ २०१६ ॥ ९०३ (A) तथाहि X 20. For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy