________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ९०२ (A)
सूत्रेणाभिधीयमानाऽन्या समुत्कर्षणा स्थापनेत्यधिकृतसूत्रसम्बन्धः ॥२०१४ ॥ अनेन सम्बन्धेनायातस्यास्य व्याख्या
आचार्य उपाध्यायो वा स्मरन् अयमुपस्थापनार्ह इति जानानः परं चतूरात्रात् पञ्चरात्राद्वा कल्पाकं सूत्रतोऽर्थतश्च प्राप्तं भिक्षु नोपस्थापयति। तत्र यदि तस्मिन् कल्याके सत्यस्ति से तस्य कल्पाकस्य कश्चिद् माननीयः पिता भ्राता वा ज्येष्ठः स्वामी वा कल्पाको भावी पञ्चदशरात्रेण वा ततो नास्ति से तस्य कश्चित् च्छेदः परिहारो वा, उपलक्षणमेतत्, अन्यदपि तप:प्रायश्चित्तम्, माननीयेऽनुपस्थापिते तस्योत्थापनाया अयोगात्। अथ नास्ति से तस्य कश्चिद् माननीयः कल्पाको भावी ततः से तस्याचार्यस्योपाध्यायस्य वा स्वकृतादन्तरात् छेदः परिहारो वा। इयमत्र भावना-अत्रादेशद्वयम्; एके प्राहु:-चतूरात्रात् परं यदि अन्यानि चत्वारि दिनानि नोपस्थापयति तत आचार्यस्योपाध्यायस्य च प्रत्येकं प्रत्येकं प्रायश्चित्तं चतुर्गुरुकं चतुर्गुरुकम्, अथ ततोप्यन्यानि चत्वारि दिनानि लङ्घयति ततः षड्लघुकं षड्लघुकम्, ततोऽन्यानि चत्वारि दिनानि ततः षड्गुरुकं षड्गुरुकं प्रायश्चित्तम्, ततोऽप्यन्यानि यदि चत्वारि दिनानि नोपस्थापयति ततश्चतुर्गुरुकश्चतुर्गुरुकश्छेदः ततोऽप्यन्यानि चत्वारि दिनानि यदि तर्हि षट् लघुकः षट् लघुकश्छेदः, ततोऽपि चेदन्यानि चत्वारि दिनानि ततः षड्गुरुकः
गाथा २०१५-२०१८ दीक्षाविधि:
| ९०२ (A)
For Private and Personal Use Only