SearchBrowseAboutContactDonate
Page Preview
Page 243
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ९०० (B) अहव पडिवत्तिकुसला, तो तेण समं करेंति उल्लावं । पभवंतो वि य सो वी, वसभे ऊ उत्तरीकुणती ॥ २०१० ॥ अथवा ये प्रतिपत्तिकुशलाः परप्रतिवचनदानसमर्थास्ततस्ते गत्वा तेन प्रभुणा सह परस्परमुल्लापं तथा कुर्वन्ति गृहीतलिङ्गाश्च तथा तं भावयन्ति, यथा सोऽपि, आसतां गृहीतलिङ्गा इत्यपिशब्दार्थः, प्रभवन्नपि वृषभानुत्तरीकरोति उत्तरवादिनः करोति ॥२०१०॥ ततः स निरुत्तरीकृतः सन् यद् ब्रूते तदाहतो भणइ कलहमित्ता, तुब्भे मे वहेजह उदंतं ति । ते वि य पडिस्सुणंती, एवं एगाए छम्मासा ॥ २०११ ॥ तत: सिद्धान्तोल्लापे पराजित: सन् भणति- यूयं मम कलहमित्राणि कलहानन्तरं यानि जातानि मित्राणि तानि कलहमित्राणि। ततो मे ममोदन्तं वहत। एवमुक्ते तेऽपि वृषभाः प्रतिशण्वन्ति अभ्युपगच्छन्ति। तत एवं गत्यागतिभिस्तमतीवाऽऽवर्ण्य षण्मासान यावत् तत्र चिकित्सां कारयन्ति । एवमेकस्यामनाथशालायां षण्मासाः, एवं द्वितीयस्यां तृतीयस्यामपि च ॥ २०११ ।। सूत्र १५ गाथा २००९-२०१४ उपस्थापना ऽकरणे | प्रायश्चित्तादिः ९०० (B) H For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy