________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९९ (B)
तथापि निमित्तैरपि चेदशुद्धं न लभेत, ततोऽनाथशालायाः- आरोग्यशाला तस्यां मध्ये न प्रविशन्ति, किन्तु बहिः स्थितास्तत आरोग्यशालात औषधं गवेषयित्वा समानयन्ति। अथ ते शालानिवासिनो न प्रयच्छन्ति तर्हि यस्तस्या आरोग्यशालायाः प्रभुरधिपस्तमनुशास्य याचन्ते। तथाप्यलाभे स धर्मकथया आवर्जनीयः । तथाप्यनावर्जने निमित्तेनाप्यावर्जयितव्यः। तथापि बहिःस्थितानामौषधप्रदानमनिच्छति यद् यस्यार्चितं लिङ्गं तेन लिङ्गेन प्रविशन्ति, प्रविश्यौषधमानयन्ति। अथ स्वलिङ्गेनापि तत्र कस्मान्न प्रविशन्ति? तत आह- स्वलिङ्गवेशनेन स्वलिङ्गप्रवेशेन प्रवचनस्य उड़ाह:- नाऽमी किमपि जानते, न चामीषां धर्मः श्रेयान, ततः क्वचिदपि किञ्चिदप्यलभमाना अनाथा इवात्र समागताः इति प्रवचनस्योपघातः ॥ २००७॥ ।
गाथा २००३-२००८
ग्लान्ये चिकित्साविधि:
एतदेव "पणहाणीए अलंभे' इत्यादिकं विवरीषुरिदमाहपणगादी जा गुरुगा, अलब्भमाणे बहिं तु पाउग्गे । बहिठिय साल गवेसण, तत्थ पभुस्साणुसट्ठादी ॥ २००८ ॥
८९९ (B)
For Private and Personal Use Only