________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९९ (A)
अथवा द्वितीय आदेश:- गुरौ वृषभे भिक्ष्वादौ च यथाक्रमं चिकित्सां कारयन्ति यावज्जीवं द्वादशवर्षाणि त्रिषट्कम् अष्टादशमासान्। कथम्? इत्याह- अशुद्धेन, अपिशब्दोऽत्र लुप्तो द्रष्टव्यः। प्रथमतः शुद्धेन, तदभावे चाशुद्धेनापि, तदनन्तरं भिक्ष्वादिना भक्तविवेकः कर्तव्यः । 'गुरुस्तु गच्छप्रवर्तकः' इति तस्य यावज्जीवं चिकित्सा ॥२००५ ॥ तत्र प्रथमादेशेन भक्तविवेकं कर्तुं शक्नुवन्तं प्रत्यष्टादशमासान् [यः] कश्चिच्चिकित्साविधि: तमभिधित्सुराह
पयत्तेण ओसहं से, करेंति सुद्धेण उग्गमादीहिं । पणहाणीए अलंभे, धम्मकहाहिं निमित्तेहिं ॥ २००६ ॥ तहवि न लभे असुद्धं बहि ठिय सालाहिवाऽणुसट्ठादी ।
गाथा
२००३-२००८ नेच्छंते बहि दाणं, सलिंगविसणेण उड्डाहो ॥ २००७ ॥
ग्लान्ये प्रथमतः प्रयत्नेनोद्गमादिभिः शुद्धेन वस्तुजातेन से तस्यौषधं कुर्वन्ति। तदलाभे || चिकित्सा
विधि: पञ्चकपरिहाण्या यावच्चतुर्गुरुकेनाप्यशुद्धेनापि। तथाप्यलाभे धर्मकथाभिस्तदौषधमुत्पादयन्ति। तथाप्यलाभे निमित्तैरपि ॥२००६ ।।
८९९ (A) १. अशुद्धेनापि, अपिशब्दो- पु. प्रे.॥
For Private and Personal Use Only