________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहार
सूत्रम् चतुर्थ उद्देशकः ८९८ (B)
प्रथमत आचार्यः षण्मासान् यावत् चिकित्सां कारयति, तथाप्यप्रगुणीभूतं तं कुलस्य समर्पयति। ततः कुलं त्रीन् संवत्सरान् यावच्चिकित्सकं भवति, तथाप्यप्रगुणीभवने कुलं गणस्य तं समर्पयति। तदनन्तरं संवत्सरं यावद् गणः खलु चिकित्सां कारयति, तथाप्यनिवर्तिते रोगे तं गणः सङ्घस्य समर्पयति, ततः सङ्घो यावज्जीवं प्रासुकप्रत्यवतारेण तदभावे चाप्रासुकेनापि यावज्जीवं चिकित्सको भवति। एतच्चोक्तं यो भक्तविवेकं कर्तुं न |* शक्नोति तमधिकृत्य। यः पुनर्भक्तविवेकं कर्तुं शक्नोति तेन प्रथमतोऽष्टादशमासान् चिकित्सा कारयितव्या, विरतिसहितस्य जीवितस्य पुनः संसारे दुष्प्रापत्वात्; तदनन्तरं चेत्प्रगुणीभवति ततः सुन्दरम्, अथ न भवति तर्हि भक्तविवेकः कर्तव्यः ॥२००४॥
गाथा
२००३-२००८ अत्रैवाऽऽदेशान्तरमाह
ग्लान्ये
चिकित्साअहवा बिइयादेसो, गुरु वसभे भिक्खुमादि तेगिच्छं ।
विधिः जज्जिय बारसवासा, तिछक्कमासा असुद्धेण ॥ २००५ ॥
८९८ (B) १. कित्सां कारयति तथा खं. ॥
For Private and Personal Use Only