________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९८ (A)
एनामेव सम्प्रति भाष्यकृद् विवरीषुराहमोहेण पुव्व भणियं, रोगेण करेंतिमाए जयणाए । आयरिय कुल गणे वा, संघे व कमेण पुव्वुत्तं ॥ २००३ ॥
यदि मोहेनावधावनं कर्तुमीहते तदा यत्पूर्वं तृतीयोद्देशके मोहचिकित्साविषयं भणितं तत्कर्तव्यम्। अथ रोगेण तदा अनया वक्ष्यमाणया 'प्रथमतः प्रासुकेन, तदलाभे चाप्रासुकेनापि' इत्येवंरूपया यतनया पूर्वोक्तं भैषजं प्रयत्नेन सम्पादनीयमित्यादिरूपं कुर्वन्ति। के ते | कुर्वन्ति? इति अत आह- आचार्यः कुलं गणः सङ्घो वा। कथम्? इत्याह-क्रमेण परिपाट्या ॥२००३ ॥
गाथा २००३-२००८
ग्लान्ये चिकित्साविधिः
तामेव परिपाटी कालनियमनपूर्विकामाह
छम्मासे आयरिओ, कुलं तु संवच्छराणि तिन्नि भवे । संवच्छरं गणो खलु, जावजीवं भवे संघो ॥ २००४ ॥
८९८ (A)
For Private and Personal Use Only