________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९६ (B)
गतमिच्छाद्वारम् । सम्प्रति यथाकल्पद्वारावसर:-तत्र ये गच्छसाधवस्तं स्वगच्छसाधुं प्रातीच्छिकं च पूर्वस्थापितं यथाकल्पेन नाभ्युत्तिष्ठन्ति। यथाकल्पानभ्युत्थानमेवाह
आवस्सग सुत्तत्थे, भत्ते आलोयणा उवट्ठाणे । पडिलेहा कितिकम्मं, मत्तग-संथारगतिगं च ॥ २००० ॥
आवश्यके क्रियमाणे यो विनयस्तस्य आचार्यस्य कर्तव्यस्तं न कुर्वन्ति। सूत्रमर्थं वा तस्य समीपे न गृह्णन्ति। भत्तेत्ति, आचार्यप्रायोग्यं तस्य भक्तं न प्रयच्छन्ति । आलोयणत्ति, तस्य पुरतो नालोचयन्ति। उवठ्ठाणत्ति आचार्यर्वस्त्र-कम्बल-पात्रादिप्रत्युपेक्षणाय नोपतिष्ठन्ति। नापि कृतिकर्म वन्दनकमन्यद्वा कुर्वन्ति। नापि मात्रकद्विकं तस्य ढोकयन्ति। तिस्त्रः संस्तारकभूमयस्ता अपि न प्रयच्छन्ति। तेषामपि यथाकल्पमनभ्युत्तिष्ठतां प्रायश्चित्तं छेदः परिहारः सप्तरात्रं वा तप इति ९॥२००० ॥
सूत्रम्- आयरिय उवज्झाए ओहायमाणे अन्नयरं वएज्जा, जाव सव्वेसिं तप्पतियं छए वा परिहारे वा ॥ १४ ॥ १. वस्त्रपात्रादिकम्बल प्र. सं.॥
सूत्र१४
गाथा १९९९-२००२ आचार्यपदस्थापनसामाचारी
८९६ (B)
For Private and Personal Use Only