________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
| भे भवतां यदृच्छा यत् प्रतिभासते तत्कुरुतेति भावः। अत्रेच्छाद्वारावसरः- एवमुक्ते तेन गणधरपदं प्रतिपद्य कश्चनाप्येको निर्मापितः, पश्चात्तस्य चित्तमजायत, यथा- अभ्युद्यतविहाराद् गच्छपरिपालनं विपुलतरनिर्जराद्वारम् तस्मात्परिपालयाम्यहमेव गच्छमिति ॥ १९९७ ।।
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९५ (B)
तथा चाऽऽहनिम्माणेऊणेगं, इमंपि मे निज्जराए दारं तु । निक्खिव न निक्खेवामी, इत्थं इतरे उ खुब्भंति ॥ १९९८ ॥
स गणधरपदे स्थापित: एकं कञ्चनापि निर्माप्यैवं चित्तमकार्षीत्- इदमपि गच्छपरिपालनं महद् निर्जराया द्वारम् । एवं व्यवसिते तस्मिन् गच्छे गीतार्था ब्रुवते- निक्षिप गणधरपदम्, स प्राह-न निक्षिपामि, किन्तु इच्छामि गच्छं परिपालयितुम्। एवमुक्ते इतरे गच्छगीतार्थाः क्षुभ्यन्ति ॥१९९८ ॥
गाथा १९९५-१९९८ आचार्यपदस्थापनाया सामाचारी
८९५ (B)
ते च क्षुभ्यन्तो यद् ब्रुवते तदाह१. निर्माप्येदं- सं. ॥
For Private and Personal Use Only