SearchBrowseAboutContactDonate
Page Preview
Page 232
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री | व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९५ (A) यदेतद्भणितमेतत्प्रसङ्गागतम्। अयं पुनः स्फुटसूत्रनिपातःअब्भुज्जयमेगयरं, ववसिउकामम्मि होइ सुत्तं तु । ते बेंति कुणसु एक्कं, गीयं पच्छा जदिच्छा भे ॥ १९९७ ॥ आचार्येण कोऽपि स्वशिष्यः समीहितः, यथा-अयमाचार्यपदयोग्य इति, ततो गीतार्थाः सन्दिष्टा:- एष समुत्कर्षयितव्यः। स च कालगते आचार्ये ब्रूते-अहमभ्युद्यतविहारंजिनकल्पादिकमभ्युद्यतमरणं वा प्रतिपत्स्ये तस्मिन्नभ्युद्यतमेकतरं विहारं मरणं वा व्यवसितुमनसि भवति निपतति सूत्रम्- “अत्थि या इत्थ केइ अण्णे समुक्कसणारिहे से समुक्कसियव्वे नत्थि या इत्थ केइ अन्ने समुक्कसणारिहे से चेव समुक्कसियव्वे" तस्मिन्नभ्युद्यतस्यैकतरं व्यवसितुकामे अस्ति चेदत्र गच्छेऽन्यः कश्चित्समुत्कर्षणार्हस्तर्हि स समुत्कर्षयितव्यः । नास्ति चेदत्र कश्चिदन्यः समुत्कर्षणार्हस्ततः स एव समुत्कर्षयितव्यः। कथम्? इति चेत्, उच्यते, ते गीतार्था अभ्यर्थनापुरस्सरं तं ब्रुवते- यूयं गणधरपदं परिपालयन्त एकमस्माकं कञ्चन गीतं गीतार्थं कुरुत निर्मापयत, ततः पश्चात्तस्मिन्निर्मापिते गाथा १९९५-१९९८ आचार्यपदस्थापनाया सामाचारी ८९५ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy