________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्री
व्यवहारसूत्रम् चतुर्थ उद्देशकः ८९४ (A)
अनिष्पादकत्वात्। तृतीयस्तु शून्यः, वाचनाया अभावे निष्पादकत्वायोगात्। यदि वा आत्मना न वाचयति अन्येन वाचयति तदा सोऽपि योग्यः । चतुर्थभङ्गिकस्तु सर्वथानह एव ६ ॥१९९४॥
साम्प्रतमधिकृत एवार्थेऽन्यशिष्यद्वारमाहअसतीव अन्नसीसं, ठावेंति गणम्मि जाव निम्मातो । एसो चेव अणरिहो, अहवावि इमो ससिस्सो वि ॥ १९९५ ॥
आचार्याः कालं कर्तुकामाः आत्मीयाः शिष्याः सर्वेऽप्यनिर्माताः इति तेषां मध्ये गणधरपदयोग्ये एकस्मिन्नप्यसति अन्यस्य शिष्यं प्रातीच्छिकं गणे स्थापयन्ति, भणन्ति | च- यावन्मम शिष्यो निर्मातः निष्पन्नो भवति तावत्त्वं गणधरः, [गणधरे] निर्माते सति त्वया गणधरपदं निक्षेप्तव्यम्। यदि न निक्षिपति ततश्छेदः परिहारः सप्तरात्रं वा तपः प्रायश्चित्तम् । एष समीक्षितोऽप्यन) जातः। अथवायं स्वशिष्योऽप्यनर्हः ॥ १९९५ ॥
गाथा १९९५-१९९८ आचार्यपदस्थापनाया सामाचारी
८९४ (A)
तमेवाह
For Private and Personal Use Only