________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
व्यवहारसूत्रम्
चतुर्थ
उद्देशकः ८८९ (A)
अत्रैव विधिशेषमाहदोमादी गीयत्थे, पुव्वुत्तगमेण सति गणं विभए । मीसे व अणरिहे वा, अगीयत्थे वा भएज्जाहि ॥ १९७९ ॥
आचार्येण शिष्या निर्मापिताः, ते द्वौ त्रयश्चत्वारो वा भवेयुः। तेषु व्यादिषु गीतार्थेषु । सति प्रभवति परिवारे पूर्वोक्तगमेन तृतीयोद्देशकोक्तेन प्रकारेण गणं विभजेत्। तेषु सर्वेष्वपि विभज्य पृथक्पृथग्गणो दातव्य इत्यर्थः । तथा मिश्रा नाम-तेषामाचार्यशिष्याणां मध्ये केचिद् | गीतार्थाः केचिदगीतार्थास्तानपि विभजेत्। किमुक्तं भवति? ये गीतार्थास्तान् गणधरपदस्थाप्यतया पृथक्कुर्याद्, इतरांस्त्वगीतार्थाननर्हतया। अथवा यैरों देशतो गृहीतो देशतो न गृहीतस्ते मिश्रास्तान्विभजेत्, एते मिश्रा अपि योग्या एते त्वयोग्या इति विभागेन स्थापयेत्। तथा ये शरीरेण जुङ्गिकतया सर्वथा गणधरपदानस्तिानपि विभजेत्। वाशब्दः अपिशब्दार्थः, एकान्तेनायोग्यतया पृथक् स्थापयेत्। अगीतार्थान् वा भजेद् विभजेत्। इयमत्र भावनायेऽगीतार्था नाचार्यलक्षणोपेतास्ताननर्हतया स्थापयति । ये पुनरगीतार्था अपि सम्भाव्यश्रुतसम्पद आचार्यलक्षणोपेतान् तान् योग्यतया पृथक् स्थापयति ॥१९७९ ।। १. विशेष मो. सं.॥
गाथा १९७७-१९८१
आचार्यपदार्हचयने विधिशेषः
८८९ (A)
For Private and Personal Use Only