SearchBrowseAboutContactDonate
Page Preview
Page 216
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir x श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः . ८८७ (A) समुत्कर्षयितव्यः। अथ नास्ति कश्चिदन्यः समुत्कर्षणार्हस्तर्हि स एव अभ्यर्थ्य समुत्कर्षयितव्यः । तस्मिंश्च समुत्कर्षिते परो गच्छे वदेत् दुःसमुत्कृष्टं ते तव हे आर्य ! तस्मानिक्षिप। एवं तस्य निक्षिपतो नास्ति कश्चित् च्छेदः परिहारो वा, उपलक्षणमेतद् अन्यत्तपो वा सप्तरात्रादिकम्। ये पुनः साधर्मिका गच्छसाधवः यथाकल्पेन आवश्यकादिषु यथोक्त विनयकरणलक्षणेन नोत्थाय विहरन्ति तेषां सर्वेषां प्रत्येकं तत्प्रत्ययं यथाकल्पानभ्युत्थानप्रत्ययं छेदः परिहार: सप्तरात्रं वा तपः प्रायश्चित्तमिति सूत्रसक्षेपार्थः ॥१९८१॥ एवमेव भाष्यकृत् प्रपञ्चयन् प्रथमतो 'गिलायमाणे' इत्यस्यार्थं भावयतिअतिसयमरिट्ठतो वा, धातुक्खोभेण वा धुवं मरणं । नाउं सावेक्खगणी, भणंति सुत्तम्मि जं वुत्तं ॥ १९७४ ॥ अतिशयेन श्रुतज्ञानातिशयादिना अरिष्टतो वा अरिष्टदर्शनतो वा धातुक्षोभेण वा ध्रुवं मरणं ज्ञात्वा सापेक्षाः गच्छापेक्षोपेता गणिनो यत्सूत्रे उक्तम् “अज्जो! [ममंसि णं] सूत्र १३ गाथा १९७३-१९७६ आचार्यपदे स्थापनविधिः | ८८७ (A) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy