SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री व्यवहारसूत्रम् चतुर्थ उद्देशकः ८८६ (B) आयरियत्ते पगते, अणुयत्तंते य कालकरणम्मि । अत्थे सावेक्खो वा, वुत्तो इमतो वि सावेक्खो ॥ १९७३ ॥ आचार्यत्वं प्रकृतं पूर्वसूत्रेषु अनुवर्तमानं च कालकरणम्, तत आचार्यत्वे प्रकृतेऽनुवर्तमाने |* च कालकरणे इदमपि सूत्रमापतितम्, अत्राप्याचार्यत्वस्य कालकरणस्य चाभिधास्यमानत्वात्। यदि वा पूर्वमर्थतः सापेक्ष उक्तः, अयमपि चाधिकृतसूत्रेणाभिधीयमानः सापेक्ष इति सापेक्षत्वप्रकरणादनन्तरसूत्रादनन्तरमस्य सूत्रस्योपनिपातः ॥१९७३ ।। अनेन सम्बन्धेनायातस्यास्य व्याख्या आचार्य उपाध्यायो वा धातुक्षोभादिना ग्लायन् अन्यतरमुपाध्याय-प्रवर्ति-गणाच्छेदकगीतार्थ-भिक्षूणामन्यतमं सापेक्ष: सन् वदेत्- 'आर्य ! मयि कालगते सति अयं समुत्कर्षयितव्यः आचार्यपदे स्थापयितव्यः'। स चेत्परीक्षया समुत्कर्षणार्हो भवति ततः समुत्कर्षयितव्यः, नो चेत्समुत्कर्षणार्हस्तर्हि नो समुत्कर्षयितव्यः । अथ योऽसौ पूर्वमाचार्येण समीक्षितः सोऽभ्युद्यतविहारमभ्युद्यतमरणं वा अध्यवसितस्तत्राह-अस्ति चात्र गच्छेऽन्यः कश्चित्समुत्कर्षणार्हः स सूत्र १३ गाथा १९७३-१९७६ | आचार्यपदे स्थापनविधिः ८८६ (B) For Private and Personal Use Only
SR No.020936
Book TitleVyavahar Sutram Part 03
Original Sutra AuthorN/A
AuthorMunichandrasuri
PublisherOmkarsuri Gyanmandir Surat
Publication Year2010
Total Pages540
LanguageSanskrit
ClassificationBook_Devnagari & agam_vyavahara
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy